|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.75. अध्यायः 075
Mahabharata - Vana Parva - Chapter Topics
परेद्युः प्रभाते भीमराजेन स्रातालंकृतयोर्नलदमयन्त्योर्दर्शनम् ॥ 1 ॥ ऋतुपर्णेन नलं क्षमापयित्वा ततोऽश्वविद्यापरिग्रहणपूर्वकं स्वपुरंप्रति गमनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
बृहदश्व उवाच। 3-75-0x(1971)(18778)
अथ तां व्युषितो रात्रिं नलो राजा स्वलंकृतः।
वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् ॥ 3-75-1(18779)
ततोऽभिवादयामास प्रयतः श्वशुरं नलः।
ततो नु दमयन्ती च ववन्दे पितरं शुभा ॥ 3-75-2(18780)
तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा।
यथार्हं पूजयित्वा च समाश्वासयत प्रभुः ॥ 3-75-3(18781)
नलेन सहितां तत्रदमयन्तीं पतिव्रताम्।
`अनुजग्राह महता सत्कारेण क्षितीश्वरः' ॥ 3-75-4(18782)
तामर्हणां नलो राजा प्रतिगृह्य यथाविधि।
परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत् ॥ 3-75-5(18783)
ततो बभूव नमरे सुमहान्हर्षजः स्वनः।
जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथाऽऽगतम् ॥ 3-75-6(18784)
अशोभयच्च नगरीं पताकाध्वजमालिनीम्।
सिक्ताः सुमृष्टपुष्पाढ्या राजमार्गाः स्वलंकृताः ॥ 3-75-7(18785)
द्वारिद्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः।
अर्चितानि च सर्वाणि देवतायतनानि च ॥ 3-75-8(18786)
ऋतुपर्णोऽपिशुश्राव बाहुकच्छद्मिनं नलम्।
दमयन्त्या समायुक्तं जहृषे च नराधिपः ॥ 3-75-9(18787)
तमानाय्य नलं राजा क्षमयामास पार्थिवः।
स च तं क्षमयामास हेतुभिर्बुद्धिसंमितः ॥ 3-75-10(18788)
स सत्कृतोमहीपालो नैषधं विस्मिताननः।
दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत ॥ 3-75-11(18789)
कच्चित्तु नापराधं ते कृतवानस्मि नैषध।
अज्ञातवासे वसतो मद्गृहेवसुधाधिप ॥ 3-75-12(18790)
यदि वाऽबुद्धिपूर्वाणि यदि बुद्ध्याऽपि कानिचित्।
मया कृतान्यकार्याणि तानि त्वं क्षन्तुमर्हसि ॥ 3-75-13(18791)
नल उवाच। 3-75-14x(1972)
न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव।
कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव ॥ 3-75-14(18792)
पूर्वं ह्यापि सखा मेऽसि संबन्धी च जनाधिप।
अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि ॥ 3-75-15(18793)
सर्वकामैः सुविहितैः सुखमस्म्युषितस्त्वयि।
न तथा स्वगृहेराजन्यथा तव गृहे सदा ॥ 3-75-16(18794)
इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति।
तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव ॥ 3-75-17(18795)
एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः।
स च तां प्रतिजग्राह विधिदृष्टेन क्रमणा ॥ 3-75-18(18796)
गृहीत्वा चाश्वहृदयं प्रीतो भागस्वरिर्नृप।
निषधाधिपतेश्चापि दत्ताऽक्षहृदयं नृपः।
सूतमन्यमुपादाय ययौ स्वपुरमेव ह ॥ 3-75-19(18797)
ऋतुपर्णे गते राजन्नलो राजा विशांपते।
नगरे कुण्डिने कालं नातिदीर्गमिवावसत् ॥ 3-75-20(18798)
इति श्रीमन्महाभारते अरण्यपर्वयणि नलोपाख्यानपर्वणि पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-75-6 जनाश्च सर्वे संहृष्टा राजा चोत्सवमाचरदिति ध. पाठः .। 3-75-8 पुष्पभङ्गः पुष्पसंमर्दः ॥ 3-75-17 उपाकर्तुं दातुम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|